🪷 ॐ श्रीं महालक्ष्म्यै नमः 🪷

माँ लक्ष्मी — समृद्धि, सौभाग्य और करुणा

श्री लक्ष्मी अष्टकम्, महालक्ष्मी स्तोत्रम्, लक्ष्मी गायत्री मंत्र और सम्पूर्ण कनकधारा स्तोत्रम्

01

माँ लक्ष्मी का परिचय

माँ लक्ष्मी को धन, धान्य, समृद्धि, सौभाग्य, करुणा और मंगल की अधिष्ठात्री देवी माना जाता है। वे भगवान विष्णु की अर्धांगिनी हैं।

🪷 कमलासन🪔 दीपावली पूजन🌾 धन-धान्य🙏 श्रीहरि की प्रिया

लक्ष्मी पूजा केवल भौतिक संपन्नता की कामना नहीं, बल्कि सदाचार, परिश्रम, दान और संतोष का स्मरण भी है। दीपावली और शुक्रवार को भक्त विशेष रूप से लक्ष्मी उपासना करते हैं।

03

श्री लक्ष्मी अष्टकम्

श्रीयदुपत्याचार्यकृत आठ श्लोकों में माँ लक्ष्मी की महिमा और कृपा की स्तुति; साथ में फलश्रुति।

यस्याः कटाक्षमात्रेण ब्रह्मरुद्रेन्द्रपूर्वकाः ।
सुराः स्वीयपदान्यापुः सा लक्ष्मीर्मे प्रसीदतु ॥ १॥

याऽनादिकालतो मुक्ता सर्वदोषविवर्जिता ।
अनाद्यनुग्रहाद्विष्णोः सा लक्ष्मी प्रसीदतु ॥ २॥

देशतः कालतश्चैव समव्याप्ता च तेन या ।
तथाऽप्यनुगुणा विष्णोः सा लक्ष्मीर्मे प्रसीदतु ॥ ३॥

ब्रह्मादिभ्योऽधिकं पात्रं केशवानुग्रहस्य या ।
जननी सर्वलोकानां सा लक्ष्मीर्मे प्रसीदतु ॥ ४॥

विश्वोत्पत्तिस्थितिलया यस्या मन्दकटाक्षतः ।
भवन्ति वल्लभा विष्णोः सा लक्ष्मीर्मे प्रसीदतु ॥ ५॥

यदुपासनया नित्यं भक्तिज्ञानादिकान् गुणान् ।
समाप्नुवन्ति मुनयः सा लक्ष्मीर्मे प्रसीदतु ॥ ६॥

अनालोच्यापि यज्ज्ञानमीशादन्यत्र सर्वदा ।
समस्तवस्तुविषयं सा लक्ष्मीर्मे प्रसीदतु ॥ ७॥

अभीष्टदाने भक्तानां कल्पवृक्षायिता तु या ।
सा लक्ष्मीर्मे ददात्विष्टं ऋजुसङ्घसमर्चिता ॥ ८॥

॥ फलश्रुतिः ॥
एतल्लक्ष्म्यष्टकं पुण्यं यः पठेद्भक्तिमान् नरः ।
भक्तिज्ञानादि लभते सर्वान् कामानवाप्नुयात् ॥ ९॥

वैष्णवेभ्यः प्रदातव्यमेतत् स्तोत्रं प्रयत्नतः ।
अवैष्णवाय यो दद्यात् मोहात् स ब्रह्महा भवेत् ॥ १०॥

॥ इति श्रीयदुपत्याचार्यकृतं लक्ष्म्यष्टकं सम्पूर्णम् ॥
04

श्री महालक्ष्मी स्तोत्रम् — इन्द्रकृत महालक्ष्मी अष्टकम्

देवराज इन्द्र से संबद्ध महालक्ष्मी अष्टकम् के आठ श्लोक और तीन फलश्रुति श्लोक। यह ऊपर दिए गए लक्ष्म्यष्टकम् से अलग पाठ है।

॥ इन्द्र उवाच ॥

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ १॥

नमस्ते गरुडारूढे कोलासुरभयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ २॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ ३॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥ ४॥

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥ ५॥

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ ६॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ ७॥

श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ ८॥

॥ फलश्रुतिः ॥
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९॥

एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १०॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११॥

॥ इति श्री इन्द्रकृतं महालक्ष्म्यष्टकस्तोत्रं सम्पूर्णम् ॥
05

श्री लक्ष्मी गायत्री मंत्र

माँ लक्ष्मी के ध्यान और सद्बुद्धि की प्रार्थना में प्रचलित मंत्र का एक पाठ-रूप।

ॐ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥
06

श्री कनकधारा स्तोत्रम्

आदि शंकराचार्य से संबद्ध माँ लक्ष्मी की प्रसिद्ध स्तुति। परंपरा में एक निर्धन गृहिणी के श्रद्धापूर्ण दान की कथा से यह स्तोत्र जुड़ा है। यहाँ २१ श्लोकों वाला प्रचलित पाठ दिया गया है; अन्य पाठ-परंपराओं में श्लोक-संख्या या क्रम भिन्न हो सकता है।

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्।
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः॥१॥

मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि।
माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः॥२॥

विश्वामरेन्द्रपदविभ्रमदानदक्षं आनन्दहेतुरधिकं मुरविद्विषोऽपि।
ईषन्निषीदतु मयि क्षणमीक्षणार्धम् इन्दीवरोदरसहोदरमिन्दिरायाः॥३॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम्।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः॥४॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति।
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः॥५॥

कालाम्बुदालिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव।
मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः॥६॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् माङ्गल्यभाजि मधुमाथिनि मन्मथेन।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः॥७॥

दद्याद्दयानुपवनो द्रविणाम्बुधारां अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे।
दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः॥८॥

इष्टाविशिष्टमतयोऽपि यया दयार्द्रदृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः॥९॥

गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै॥१०॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै॥११॥

नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै॥१२॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि।
त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये॥१३॥

यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः।
सन्तनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे॥१४॥

सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥१५॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्टस्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्।
प्रातर्नमामि जगतां जननीमशेषलोकाधिनाथगृहिणीममृताब्धिपुत्रीम्॥१६॥

कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः।
अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः॥१७॥

स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः॥१८॥

नमोऽस्तु हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै।
नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै॥१९॥

नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै।
नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै॥२०॥

नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै।
नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै॥२१॥

॥ इति श्री कनकधारा स्तोत्रम् सम्पूर्णम् ॥